ॐ
राजा राष्ट्रकृतं पापं
राज्ञ: पापं पुरोहित:।
भर्ता च स्त्रीकृतं पापं
पुत्रम् पापं पिता तथा॥
स्वभावो न उपदेशेन
शक्यते कर्तुमन्यथा।
कर्मायत्तं फलं पुंसां
बुद्धिः कर्मानुसारिणी॥
अन्यक्षेत्रे कृतं पापं
पुण्य क्षेत्रे विनश्यति।
शस्त्र क्षेत्रे कृतं पापं
वज्रलेपो भविष्यति॥
[…]